कृत्यर्थे छन्दसि इत्येव। अवपूर्वात् चक्षिङः एश् प्रत्ययो निपात्यते। रिपुणा नावचक्षे। नावख्यातव्यम् इत्यर्थः।
"एश्प्रत्ययो निपात्यते" इति। शित्करणं सार्वधातुकसंज्ञार्थम्। तेनार्धधातुके विधीयमानः सार्वधातुके "चक्षिङ ख्याञ्"
२।४।५४ इति ख्याञादेशो न भवति॥